|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.191. अध्यायः 191
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति कृतादियुगचतुष्टयधर्मकथनपूर्वकं प्रलयवर्णनम् ॥ 1 ॥ तथा प्रलयजले परिप्लवता मार्कण्डेयेन वटशाखाशायिनः शिशुरूपस्य हरेरुदरान्तःप्रविश्य ब्रह्माण्डदर्शनपूर्वकं पुनर्वहिर्निर्गमनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-191-0x(2390)(23271)
ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम्।
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥ 3-191-1(23272)
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने।
न चापीह समः कश्चिदायुष्मान्दृश्यते तव ॥ 3-191-2(23273)
वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्।
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ॥ 3-191-3(23274)
अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते।
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ॥ 3-191-4(23275)
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे।
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ॥ 3-191-5(23276)
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना।
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥ 3-191-6(23277)
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः।
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥ 3-191-7(23278)
स्वप्रमाणमथो विप्र त्वया कृतमनेकशः।
घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया ॥ 3-191-8(23279)
नारायणाङ्कप्रख्यस्त्वं सांपरायेऽतिपठ्यसे ॥ 3-191-9(23280)
भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत्।
कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः।
रत्नालंकारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा ॥ 3-191-10(23281)
तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी।
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥ 3-191-11(23282)
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः।
नैवान्तरिक्षं नैवोर्वी शेषं भवति किंचन ॥ 3-191-12(23283)
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे।
नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥ 3-191-13(23284)
शयानममितात्मानं पद्मे पद्मनिकेतनम्।
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥ 3-191-14(23285)
एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम।
तस्मादिच्छाम्यहं श्रोतुं सर्वांहेत्वात्मिकां कथां ॥ 3-191-15(23286)
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम।
न तेऽस्त्यविदितं किंचित्सर्वलोकेषु नित्यदा ॥ 3-191-16(23287)
मार्कण्डेय उवाच। 3-191-17x(2391)
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयंभुवे।
पुरुषाय पुराणाय शाश्वतायाव्ययाय च।
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने ॥ 3-191-17(23288)
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः।
एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः ॥ 3-191-18(23289)
अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते।
अनादिनिधनं भूतं विश्वमव्ययमक्षयम् ॥ 3-191-19(23290)
एष कर्ता न क्रियते कारणं चापि पौरुषे।
को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे ॥ 3-191-20(23291)
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम।
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥ 3-191-21(23292)
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 3-191-22(23293)
वीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परं ॥ 3-191-23(23294)
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः।
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ 3-191-24(23295)
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम्।
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥ 3-191-25(23296)
सन्ध्यासंध्यांशयोस्तुल्यं प्रमाणमुपधारय।
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ॥ 3-191-26(23297)
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता।
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ॥ 3-191-27(23298)
विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते।
लोकानां मनुजवन्याघ्र प्रलयं तं विदुर्बुधाः ॥ 3-191-28(23299)
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ।
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥ 3-191-29(23300)
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा।
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥ 3-191-30(23301)
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः।
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये ॥ 3-191-31(23302)
निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः।
ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥ 3-191-32(23303)
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः।
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥ 3-191-33(23304)
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप।
मृषानुशासिनः पापा मृषावादपरायणाः ॥ 3-191-34(23305)
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः।
काम्भोजा बाह्लिकाः शूरास्तथाऽऽभीरा नरोत्तमा ॥ 3-191-35(23306)
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति।
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप ॥ 3-191-36(23307)
अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः।
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः ॥ 3-191-37(23308)
बहुशून्या जनपदा मृगव्यालावृता दिशः।
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः ॥ 3-191-38(23309)
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः।
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ॥ 3-191-39(23310)
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशांपते।
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥ 3-191-40(23311)
बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः।
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ 3-191-41(23312)
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः।
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ 3-191-42(23313)
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप।
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥ 3-191-43(23314)
ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम्।
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ 3-191-44(23315)
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः।
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ 3-191-45(23316)
कराभारभयाद्भीता गृहस्थाः परिमोषकाः।
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते ॥ 3-191-46(23317)
मित्या च नखरोमाणि धारयन्ति तदा द्विजाः।
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥ 3-191-47(23318)
आश्रमेषु वृथाचार पारपा गुरुतल्पगाः।
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥ 3-191-48(23319)
`पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः'।
बहुपाषण्डसंकीर्णाः परान्नगुणवादिनः।
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥ 3-191-49(23320)
यथर्तुवर्षी भगवान्न तथा पाकशासनः।
न चापि सर्वभीजानि सम्यग्रोहन्ति भारत ॥ 3-191-50(23321)
फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते।
हिंसाभिरामश्च जनस्तथा संपद्यतेऽशुचिः।
अधर्मफलमत्यर्थं तदा भवति चानघ ॥ 3-191-51(23322)
तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः।
अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ॥ 3-191-52(23323)
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः।
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ 3-191-53(23324)
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः।
धर्मस्य बलहानिः स्यादधर्मश्च बलायते ॥ 3-191-54(23325)
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा।
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ 3-191-55(23326)
नगराणआं विहारेषु विधर्माणो युगक्षये।
अधर्मिष्ठैरुपायैश् प्रजा व्यवहरन्त्युत ॥ 3-191-56(23327)
संचयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः।
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ॥ 3-191-57(23328)
हर्तुं व्यवसिता राजन्पापाचारसमनविताः।
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ॥ 3-191-58(23329)
पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा।
नगराणां विहारेषु चैत्येष्वपि च शेरते ॥ 3-191-59(23330)
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप।
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ 3-191-60(23331)
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा।
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ 3-191-61(23332)
क्षीणायुषो महाराज तरुणा वृद्धशीलिनः।
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥ 3-191-62(23333)
विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन्।
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥ 3-191-63(23334)
वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप।
भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत ॥ 3-191-64(23335)
तस्मिन्युगसहस्रान्ते संप्राप्ते चायुषः क्षये।
अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥ 3-191-65(23336)
ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै।
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥ 3-191-66(23337)
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप।
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥ 3-191-67(23338)
यच्च रकाष्ठं तृणं चापि शुष्कं चार्द्रं च भारत।
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥ 3-191-68(23339)
ततः संवर्तको वह्निर्वायुना सह भारत।
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥ 3-191-69(23340)
ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम्।
रदेवदानवयक्षाणां भयं जनयते महत् ॥ 3-191-70(23341)
निरदहन्नागलोकं च यच्च किंचित्क्षिताविह।
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥ 3-191-71(23342)
ततो योजनविंशानां सहस्राणि शतानि च।
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥ 3-191-72(23343)
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम्।
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥ 3-191-73(23344)
ततो गजकुलप्रख्यास्तजिन्मालाविभूषिताः।
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥ 3-191-74(23345)
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः।
केचित्किञ्जल्कसंकाशाः केचित्पीताः पयोधराः ॥ 3-191-75(23346)
केचिद्धारिद्रसंकाशाः कारण्डवनिभास्तथा।
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः ॥ 3-191-76(23347)
केचित्पुरवराकाराः केचिद्गजकुलोपमाः।
केचिदञ्जनसंकाशाः केचिन्मकरसन्निभाः ॥ 3-191-77(23348)
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः।
घोररूपा महाराज घोरस्वननिनादिताः ॥ 3-191-78(23349)
ततो जलघराः सर्वं व्याप्नुवनति नभस्तलम्।
`गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः' ॥ 3-191-79(23350)
तैरियं पृथिवी सर्वा सपर्वतवनाकरा।
आपूर्यते महाराज सलिलौघपरिप्लुता ॥ 3-191-80(23351)
ततस्ते जलदा घोरा राविणः पुरुषर्षभ।
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥ 3-191-81(23352)
वर्षमाणा महत्तोयं पूरयन्तो वसुंधराम्।
सुघोरमशिवं रौद्रं नाशयनति च पावकम् ॥ 3-191-82(23353)
ततो द्वादशवर्षाणि पयोदास्त उपप्लवे।
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥ 3-191-83(23354)
ततः समुद्रः स्वां वेलामतिक्रामति भारत।
पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते ॥ 3-191-84(23355)
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम्।
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥ 3-191-85(23356)
कततस्तं मारुतं घोरं स्वयंभूर्मनुजाधिप।
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत ॥ 3-191-86(23357)
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे।
नष्टे देवासुरगणए यक्षराक्षसवर्जिते ॥ 3-191-87(23358)
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे।
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः ॥ 3-191-88(23359)
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम।
अपश्यन्सर्वभूतानि वैक्लब्यमगमं ततः ॥ 3-191-89(23360)
ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप।
श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः ॥ 3-191-90(23361)
ततः कदाचित्पश्यामि तस्मिन्सलिलसंनिघौ।
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥ 3-191-91(23362)
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप।
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥ 3-191-92(23363)
उपविष्टं महाराज पद्मेन्दुसदृशाननम्।
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥ 3-191-93(23364)
ततो मे पृतिवीपाल विस्मयः सुमहाभूत्।
कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥ 3-191-94(23365)
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये।
भूतं भव्यं भविष्यं च जानन्नपि नराधिप ॥ 3-191-95(23366)
अतसीपुष्पवर्णाभः श्रीवत्सकृतभूषणः।
साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे ॥ 3-191-96(23367)
ततो मामब्रवीद्बालः स पद्मनिभलोचनः।
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥ 3-191-97(23368)
जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम्।
मार्कण्डेय महासत्वं यावदिच्छसि भार्गव ॥ 3-191-98(23369)
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम।
आस्खेह विहितो वासः प्रसादस्ते कृतो मया ॥ 3-191-99(23370)
ततो बालेन तेनैव मुक्तस्यासीत्तदा मम।
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥ 3-191-100(23371)
ततो बालेन तेनास्यं सहसा विवृतं कृतम्।
तस्याहमवशो वक्रे दैवयोगात्प्रवेशितः ॥ 3-191-101(23372)
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप।
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥ 3-191-102(23373)
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम्।
चर्मण्वतींवेत्रवतीं चन्द्रभागां सरस्वतीम् ॥ 3-191-103(23374)
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि।
वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥ 3-191-104(23375)
नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम्।
सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥ 3-191-105(23376)
वितस्तां च महाराज कावेरीं च महानदीम्।
`तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्'।
शोणं च पुरुषव्याघ्र विशल्यां किंपुनामपि ॥ 3-191-106(23377)
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम।
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥ 3-191-107(23378)
ततः समुद्रं पश्मामि यादोगणनिषेवितम्।
रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम् ॥ 3-191-108(23379)
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम्।
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम् ॥ 3-191-109(23380)
पश्यामि च महीं राजन्काननैरुपशोभिताम्।
`सपर्वतवनद्वीपां निम्नगाशतसंकुलाम् ॥ 3-191-110(23381)
यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः।
क्षत्रियाश् प्रवर्तन्ते सर्ववर्णानुरञ्जनैः ॥ 3-191-111(23382)
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप।
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥ 3-191-112(23383)
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः।
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥ 3-191-113(23384)
निषधं चापि पश्यामि श्वेतं च रजतान्वितम्।
पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥ 3-191-114(23385)
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम्।
पश्यामि च महाराज मेरु कनकपर्वतम् ॥ 3-191-115(23386)
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम्।
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥ 3-191-116(23387)
एते चान्ये च बहवो यावन्तः पृथिवीधराः।
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः ॥ 3-191-117(23388)
सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप।
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते।
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥ 3-191-118(23389)
कुक्षौ तस् नरव्याघ्र प्रविष्टः संचरन्दिशः।
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम् ॥ 3-191-119(23390)
साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा।
सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि ॥ 3-191-120(23391)
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते।
दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप ॥ 3-191-121(23392)
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः।
यच्च किंचिन्मया लोके दृष्टं स्थावरजङ्गमम् ॥ 3-191-122(23393)
सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः।
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो ॥ 3-191-123(23394)
अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम्। 3-191-b124 न च पश्यामि यस्याहं देहस्यान्तं कदाचन ॥ 3-191-124(23395)
सततं धावमानश्च चिन्तयानो विशांपते।
`भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्'।
आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥ 3-191-125(23396)
ततस्तमेव शरणं गतोस्मि विधिवत्तदा।
वरेण्यं वरदं देवं मनसा कर्मणैव च ॥ 3-191-126(23397)
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः।
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥ 3-191-127(23398)
ततस्तस्यैव शाखायां न्यग्रोधस्य विशांपते।
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥ 3-191-128(23399)
ते नैव बालवेषेण श्रीवत्सकृतलक्षणम्।
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥ 3-191-129(23400)
ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव।
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥ 3-191-130(23401)
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम।
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे ॥ 3-191-131(23402)
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा।
मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम् ॥ 3-191-132(23403)
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ।
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ ॥ 3-191-133(23404)
प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवनदितौ।
दृष्ट्वाऽपरिमितं तस् प्रभावममितौजसः ॥ 3-191-134(23405)
विनयेनाञ्जलिं कृत्वाप्रयत्नेनोपगम्य ह।
दृष्टो मया स भूतात्मा देवः कमललोचनः ॥ 3-191-135(23406)
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम्।
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम् ॥ 3-191-136(23407)
आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव।
दृष्टवानखिलाँल्लोकान्समस्तान्जठरे हि ते ॥ 3-191-137(23408)
तव देव शरीरस्था देवदानवराक्षसाः।
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥ 3-191-138(23409)
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते।
द्रुतमन्तःशरीरे ते सततं परिवर्तिनः ॥ 3-191-139(23410)
निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो।
यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितं ॥ 3-191-140(23411)
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥ 3-191-141(23412)
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥ 3-191-142(23413)
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया।
त्वत्तः कमलपत्राक्षं विस्तरेण यथातथम्।
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ 3-191-143(23414)
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः।
सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः ॥ 3-191-144(23415)
इति श्रीमन्महाभारते अरण्यपर्वणि मर्कण्डेयसमास्यापर्वणि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-191-4 अनन्तरिक्षे लोके इति झ. पाठः ॥ 3-191-6 चतुर्विधानि जरायुजाण्डजस्वेदजोद्भिज्जानि ॥ 3-191-9 नारायणास्य अङ्कः स्थानं समीपं वा। तत्र प्रख्यः प्रख्यातः भगवद्भक्तेषूत्तमः। सांपराये परलोके अतिपठ्यसे अत्यन्तं स्तूयसे। लोकैरिति शेषः ॥ 3-191-10 विष्णोर्ब्रह्मणः उपलब्धिस्थानत्वेन संबन्धिकर्णिकोद्धरणं कृत्वा योगकलया हृदयपुण्डरीकमुद्घाट्येत्यर्थः। रत्वया दृग्भ्यां भगवाननेकशोऽनेकवरि दृष्ट इत्यन्वयः। रत्नानि तत्तज्जात्युत्कृष्टवस्तूनि तेषां अलकारो निवारणक्रिया। परं वैराग्यमिति यावत्। योगः अभियोगोऽभ्यासः। वैराग्याभ्यासाभ्यामित्यर्थः ॥ 3-191-11 तव त्वां न विशतीत्यपकृष्यते ॥ 3-191-12 शेषं अवशिष्टम्। पञ्चमहाभूतप्रलये सतीत्यर्थः ॥ 3-191-15 एतत्सर्वं त्वया दृष्टमिति शेषः ॥ 3-191-17 स्वयंभुवे अजन्मने। पुरुषाय पूर्णाय। पुराणाय नित्यैकरूपाय। शाश्वताय अनादये। अव्ययाय नित्याय ॥ 3-191-20 यद्येष पुरुषो वेद चेदा अपि इति झ. पाठः ॥ 3-191-22 तावच्छती चतुःशती। सन्ध्या पूर्वस्मिन् युगे उत्तरयुगधर्माणामुपसर्जनतया संक्रमः। सन्ध्यांशस्तूत्तरस्मिन् पूर्वयुगधर्माणाम्। तथाविध उत्तरप्रकारस्त्रिशतीमितोयमेव पूर्वयुगापेक्षया सन्ध्यांश उत्तरयुगापेक्षया सन्ध्येति चोच्यते। तथाच कृतत्रेतयोः सन्ध्यासन्ध्यांशौ सप्तशती। त्रेताद्वापरयोः पञ्चशती। द्वापारकल्योस्त्रिशती। कलिकृतयोस्तु पञ्चशतीति विज्ञेयम्। एवं च कृतस्यादौ चतुःशती कल्यपेक्षया सन्ध्यांशोपि कृतापेक्षया सन्ध्या। एवं सर्वत्र। तेन सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणं भवति ॥ 3-191-31 तथा शूद्रधनार्जकाः इतिथ. पाठः ॥ 3-191-37 सत्येऽल्पं सत्याल्पम्। सत्यवादोऽत्यन्तमल्प इत्यर्तः ॥ 3-191-38 वृथा अनुभवाभावात् ॥ 3-191-41 मुखेभगाः प्रथमं मुखेनैव भगकार्यं कृत्वा पुरुषस् काममुद्दीपयन्त्यः। अत्यन्तं रतार्तत्वात् ॥ 3-191-42 अट्टमन्नं शिवो वेदो ब्राह्मणाश्च चतुष्पथाः। केशो भगं समाख्यातं शूलं तद्विक्रयं विदुरिति पूर्वेषां व्याख्यासंक्षेपः ॥ 3-191-45 मिथ्याधर्मः कपटधर्मः सएव ध्वजइव ख्यात्यर्थं ज्ञाप्यो येषां ते तथा चञ्चूर्यन्ते पीड्यन्ते। दिशः दिक्स्थाः जनाः ॥ 3-191-48 पानपाः मद्यपाः ॥ 3-191-56 नगराणां नगरस्थानाम् ॥ 3-191-57 आढ्योहमिति मदः आढ्यमदः ॥ 3-191-59 पुरुषादानि वृकव्याघ्रादीनि चैत्येष देवतास्थानेषु ॥ 3-191-63 अर्हतः योग्यान् ॥ 3-191-86 ततस्तं सलिलं घोरं इति क. ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|